।।🚩श्री शीतला माता स्तोत्र🚩।।
शीतला सप्तमी 2024
अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः ।
अनुष्टुप् छन्दः । शीतला देवता ।
लक्ष्मीर्बीजम् । भवानी शक्तिः ।
सर्वविस्फोटकनिवृत्यर्थे जपे विनियोगः ॥
ईश्वर उवाच ।
वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १॥
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम्।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २॥
शीतले शीतले चेति यो ब्रूयद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३॥
यस्त्वामुदकमध्ये तु ध्यात्वा सम्पूजयेन्नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४॥
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च ।
प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५॥
शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी ॥ ६॥
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति सङ्क्षयम् ॥ ७॥
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८॥
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां सञ्चिन्तयेद्देवि तस्य मृत्युर्न जायते ॥ ९॥
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १०॥
श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११॥
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १२॥
रासभो गर्दभश्चैव खरो वैशाखनन्दनः ।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३॥
एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४॥
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५॥
॥ इति श्रीस्कन्दपुराणे शीतलाष्टकं सम्पूर्णम् ॥
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।
⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️
Office number (1)
*📜ग्रहराज ज्योतिष कार्यालय📜*
छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
Office number (2)
हरसिद्धि नगर , सलाया रोड जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५
tps://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
श्रीशीतलाकवचम्
पार्वत्युवाच -
भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
शीतलाकवचं ब्रूहि सर्वभूतोपकारकम् ॥ १॥
वद शीघ्रं महादेव ! कृपां कुरु ममोपरि ।
इति देव्याः वचो श्रुत्वा क्षणं ध्यात्वा महेश्वरः ॥ २॥
उवाच वचनं प्रीत्या तत्शृणुष्व मम प्रिये ।
शीतलाकवचं दिव्यं शृणु मत्प्राणवल्लभे ॥ ३॥
ईश्वर उवाच -
शीतलासारसर्वस्वं कवचं मन्त्रगर्भितम् ।
कवचं विना जपेत् यो वै नैव सिद्धयन्ति कलौ ॥ ४॥
धारणादस्य मन्त्रस्य सर्वरक्षाकरनृणाम् ।
विनियोगः -
कवचस्यास्य देवेशि ! ऋषिर्पोक्तो महेश्वरः ।
छन्दोऽनुष्टुप् कथितं च देवता शीतला स्मृता ।
लक्ष्मीबीजं रमा शक्तिः तारं कीलकमीरितम् ॥ ५॥
लूताविस्फोटकादीनि शान्त्यर्थे परिकीर्तितः ।
विनियोगः प्रकुर्वीत पठेदेकाग्रमानसः ॥ ६॥
विनियोगः -
ॐ अस्य शीतलाकवचस्य श्रीमहेश्वर ऋषिः अनुष्टुप्छन्दः,
श्रीशीतला भगवती देवता, श्रीं बीजं, ह्रीं शक्तिः,
ॐ कीलकं लूताविस्फोटकादिशान्त्यर्थे पाठे विनियोगः ॥
ऋष्यादिन्यासः -
श्रीमहेश्वरऋषये नमः शिरसि
अनुष्टुप् छन्दसे नमः मुखे,
श्रीशीतला भगवती देवतायै नमः हृदि
श्री बीजाय नमः गुह्ये
ह्रीं शक्तये नमः नाभौ,
ॐ कीलकाय नमः पादयो लूताविस्फोटकादिशान्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ॥
ध्यानं -
उद्यत्सूर्यनिभां नवेन्दुमुकुटां सूर्याग्निनेत्रोज्ज्वलां
नानागन्धविलेपनां मृदुतनुं दिव्याम्बरालङ्कृताम् ।
दोर्भ्यां सन्दधतीं वराभययुगं वाहे स्थितां रासभे
भक्ताभीष्टफलप्रदां भगवतीं श्रीशीतलां त्वां भजे ॥
अथ कवचमूलपाठः -
ॐ शीतला पातु मे प्राणे रुनुकी पातु चापाने ।
समाने झुनुकी पातु उदाने पातु मन्दला ॥ १॥
व्याने च सेढला पातु मनुर्मे शाङ्करी तथा ।
पातु मामिन्द्रियान् सर्वान् श्रीदुर्गा विन्ध्यवासिनी ॥ २॥
ॐ मम पातु शिरो दुर्गा कमला पातु मस्तकम् ।
ह्रीं मे पातु भ्रुवोर्मध्ये भवानी भुवनेश्वरी ॥
पातु मे मधुमती देवी ॐकारं भृकुटीद्वयम् ॥ ३॥
नासिकां शारदा पातु तमसा वर्त्मसंयुतम् ।
नेत्रौ ज्वालामुखी पातु भीषणा पातु श्रुतिर्मे ॥ ४॥
कपोलौ कालिका पातु सुमुखी पातु चोष्ठयोः ।
सन्ध्ययोः त्रिपुरा पातु दन्ते च रक्तदन्तिका ॥ ५॥
जिह्वां सरस्वती पातु तालुके व वाग्वादिनी ।
कण्ठे पातु तु मातङ्गी ग्रीवायां भद्रकालिका ॥ ६॥
स्कन्धौ च पातु मे छिन्ना ककुमे स्कन्दमातरः ।
बाहुयुग्मौ च मे पातु श्रीदेवी बगलामुखी ॥ ७॥
करौ मे भैरवी पातु पृष्ठे पातु धनुर्धरी ।
वक्षःस्थले च मे पातु दुर्गा महिषमर्दिनी ॥ ८॥
हृदये ललिता पातु कुक्षौ पातु मघेश्वरी । (मघा ईश्वरी) (महेश्वरी)
पार्ष्वौ च गिरिजा पातु चान्नपूर्णा तु चोदरम् ॥ ९॥
नाभिं नारायणी पातु कटिं मे सर्वमङ्गला ।
जङ्घयोर्मे सदा पातु देवी कात्यायनी पुरा ॥ १०॥
ब्रह्माणी शिश्नं पातु वृषणं पातु कपालिनी ।
गुह्यं गुह्येश्वरी पातु जानुनोर्जगदीश्वरी ॥ ११॥
पातु गुल्फौ तु कौमारी पादपृष्ठं तु वैष्णवी ।
वाराही पातु पादाग्रे ऐन्द्राणी सर्वमर्मसु ॥ १२॥
मार्गे रक्षतु चामुण्डा वने तु वनवासिनी ।
जले च विजया रक्षेत् वह्नौ मे चापराजिता ॥ १३॥
रणे क्षेमकरी रक्षेत् सर्वत्र सर्वमङ्गला ।
भवानी पातु बन्धून् मे भार्या रक्षतु चाम्बिका ॥ १४॥
पुत्रान् रक्षतु माहेन्द्री कन्यकां पातु शाम्भवी ।
गृहेषु सर्वकल्याणी पातु नित्यं महेश्वरी ॥ १५॥
पूर्वे कादम्बरी पातु वह्नौ शुक्लेश्वरी तथा ।
दक्षिणे करालिनी पातु प्रेतारुढा तु नैरृते ॥ १६॥
पाशहस्ता पश्चिमे पातु वायव्ये मृगवाहिनी ।
पातु मे चोत्तरे देवी यक्षिणी सिंहवाहिनी ।
ईशाने शूलिनी पातु ऊर्ध्वे च खगगामिनी ॥ १७॥
अधस्तात्वैष्णवी पातु सर्वत्र नारसिंहिका ।
प्रभाते सुन्दरी पातु मध्याह्ने जगदम्बिका ॥ १८॥
सायाह्ने चण्डिका पातु निशीथेऽत्र निशाचरी ।
निशान्ते खेचरी पातु सर्वदा दिव्ययोगिनी ॥ १९॥
वायौ मां पातु वेताली वाहने वज्रधारिणी ।
सिंहा सिंहासने पातु शय्यां च भगमालिनी ॥ २०॥
सर्वरोगेषु मां पातु कालरात्रिस्वरुपिणी ।
यक्षेभ्यो यक्षिणी पातु राक्षसे डाकिनी तथा ॥ २१॥
भूतप्रेतपिशाचेभ्यो हाकिनी पातु मां सदा ।
मन्त्रं मन्त्राभिचारेषु शाकिनी पातु मां सदा ॥ २२॥
सर्वत्र सर्वदा पातु श्रीदेवी गिरिजात्मजा ।
इत्येतत्कथितं गुह्यं शीतलाकवचमुत्तमम् ॥ २३॥
फलश्रुतिः -
ब्रह्मराक्षसवेतालाः कूष्माण्डा दानवादयः ।
विस्फोटकभयं नास्ति पठनाद्धारणाद्यदि ॥ १॥
अष्टसिद्धिप्रदं नित्यं धारणात्कवचस्य तु ।
सहस्त्रपठनात्सिद्धिः सर्वकार्यार्थसिद्धिदम् ॥ २॥
तदर्धं वा तदर्धं वा पठेदेकाग्रमानसः ।
अश्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ३॥
शीतलाग्रे पठेद्यो वै देवीभक्तैकमानसः ।
शीतला रक्षयेन्नित्यं भयं क्वापि न जायते ॥ ४॥
घटे वा स्थापयेद्देवी दीपं प्रज्वाल्य यत्नतः ।
पूजयेत्जगतां धात्री नाना गन्धोपहारकैः ॥ ५॥
अदीक्षिताय नो दद्यात कुचैलाय दुरात्मने ।
अन्यशिष्याय दुष्टाय निन्दकाय दुरार्थिने ॥ ६॥
न दद्यादिदं वर्म तु प्रमत्तालापशालिने ।
दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥ ७॥
शान्ताय कुलशाक्ताय शान्ताय कुलकौलिने ।
दातव्यं तस्य देवेशि ! कुलवागीश्वरो भवेत् ॥ ८॥
इदं रहस्यं परमं शीतलाकवचमुत्तमम् ।
गोप्यं गुह्यतमं दिव्यं गोपनीयं स्वयोनिवत् ॥ ९॥
मूलमन्त्रः - ॐ श्रीं ह्रीं ॐ ।
॥ श्रीईश्वरपार्वतीसम्वादे शक्तियामले शीतलाकवचं सम्पूर्णम् ॥