Wednesday, 9 January 2019

॥ सर्वेष्टप्रदं गजाननस्तोत्रम् ॥

श्रीगणेशाय नमः ।

कपिल उवाच ।

नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥

आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥

देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥

साङ्ख्याय वै विदेहानां संयोगानां निजात्मने । चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥

नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥

आनन्दानां महाविष्णुरूपाय नेति धारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥

कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥

स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥

निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥

शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥

ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥

श्रीगणेश उवाच ।

त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥

वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥

तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥

त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह । ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥

यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥

गृत्समद उवाच ।

तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥

त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥

इति श्रीमुद्गलपुराणे गजाननस्तोत्रं समाप्तम् ।

सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।

   *📜ग्रहराज ज्योतिष कार्यालय📜*
       छाया चोक्की रोनक कोम्प्लेक्ष 
               पोरबंदर-गुजरात

            रविवार एवं सोमवार
               9727972119
         शास्त्री  एच एच राजगुरू
    *ज्योतिष-वास्तु-धार्मिकपुजा*

https://www.facebook.com/grahraj.astrology/

https://grahraj.blogspot.in/

https://www.youtube.com/results?search_query=grahraj+jyotish

https://twitter.com/grah_raj

hitu9grahgochar@gmail.com

मुलाकात के लिए पहले फोन पर Rg.  करवा ना जरुरि है।
       *🙏🏻 हरि: ॐ तत्सत् 🙏🏻*

No comments:

Post a Comment