श्रीगणेशाय नमः
।। ॐनम: शिवाय ।।
नमः श्रीविश्वनाथाय देववन्द्यपदाय ते । काशीशेशावतारे मे देवदेव ह्युपादिश ॥ १॥
मायाधीशं महात्मानं सर्वकारणकारणम् ।
वन्दे तं माधवं देवं यः काशीं चाधितिष्ठति ॥ २॥
वन्दे तं धर्मगोप्तारं सर्वगुह्यार्थवेदिनम् ।
गणदेवं ढुण्ढिराजं तं महान्तं स्वविघ्नहम् ॥ ३॥
भारं वोढुं स्वभक्तानां यो योगं प्राप्त उत्तमम् । तं सढुण्ढिं दण्डपाणिं वन्दे गङ्गातटस्थितम् ॥ ४॥
भैरवं दंष्ट्राकरालं भक्ताभयकरं भजे । दुष्टदण्डशूलशीर्षधरं वामाध्वचारिणम् ॥ ५॥
श्रीकाशीं पापशमनीं दमनीं दुष्टचेतसः । स्वनिःश्रेणिं चाविमुक्तपुरीं मर्त्यहितां भजे ॥ ६॥
नमामि चतुराराध्यां सदाऽणिम्नि स्थितिं गुहाम् । श्रीगङ्गे भैरवीं दूरीकुरु कल्याणि यातनाम् ॥ ७॥
भवानि रक्षान्नपूर्णे सद्वर्णितगुणेऽम्बिके । देवर्षिवन्द्याम्बुमणिकर्णिकां मोक्षदां भजे ॥ ८॥
इति काशीविश्वेश्वरादिस्तोत्रं सम्पूर्णम् ।
हर हर महादेव हर हर महादेव
Jai Shree Krishna
जय श्री द्वारकाधीश
हरि ॐ तत्सत्
GrahRaj Astrology
ज्योतिष-वास्तु-धार्मिकपूजा
No comments:
Post a Comment