॥ रासक्रीडा १ ॥
श्रीगर्ग उवाच -
हेमन्ते मासि पूर्वस्मिन् राकायां राधिकेश्वरः ।
वंशीं वशकरीं दघ्मौ यथा वृन्दावने पुरा ॥ १॥
ध्वनिर्बभूव तस्याश्च सर्वेषामाहरन्मनः ।
निशम्य गोप्यः सङ्खिन्नाः कामखेदेन तत्रसुः ॥ २॥
रुन्धन्नम्बुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्त्वम्बरं ध्यानाद्धन्त नयन्सनन्दनमुखान्विस्मेरयन्वेधसम् । औत्सुक्याद्बलिभिर्बलिं चटुलयन्भोगेन्द्रमाघूर्णयन् भिन्दन्नण्डकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥ ३॥
अथोदगाच्चन्द्रमास्तु चर्षणीनां शुचो मृजन् । यथा प्रियाया राजेन्द्र विदेशादागतः प्रियः ॥ ४॥
तदैव यमुना राजंस्तनुं दिव्यं दधार ह । वृन्दावनं गिरीन्द्रञ्च व्रजभूमिञ्च मानद ॥ ५॥
कृष्णा नदी जयति यत्र मणीन्द्रमुक्ता- माणिक्यशुभ्रहरिता करतोलिकाभिः । वैदूर्यनीलकहरिद्धरिवज्रपीत- सोपानमण्डपयुताभिरतिस्फुरन्ती ॥ ६॥
स्वच्छन्दसूत्पतितमत्स्यगणैर्वहन्ती सच्छ्यामलेन वपुषाघगणं हरन्ती । उत्तुङ्गलोललहरी कमलैर्लसन्ती कृष्णा नदी जयति कृष्णगृहे लुठन्ती ॥ ७॥
गोवर्धनं भज गिरीं शतचन्द्रयुक्तं मन्दारचन्दनलतावृतकल्पवृक्षम् । श्रीरासमण्डलयुतं मणिमण्डपाढ्यं कोटीरमञ्जुलनिकुञ्जकुटीरकोटिम् ॥ ८॥
वृन्दावनं च यमुनातटनीरतीर- सम्पृक्तमन्दगमनैरतिगन्धवातैः । तत्कम्पितं च सुरभीकृतसर्वदेशं श्रीखण्डकुङ्कुममृदागुरुचर्चितं तम् ॥ ९॥
जुष्टं वसन्तनवपल्लवपुष्परङ्गै- र्मन्दारचन्दनसुचम्पकनीपनिम्बैः । आम्रातकाम्रपनसागुरुनागरङ्गैः श्रीतालपिप्पलवटैर्नवनारिकेलैः ॥ १०॥
खर्जूरश्रीफललवङ्गविराजमान- मञ्जीरशालकतमालकदम्बयुक्तम् । सन्तानकुन्दबदरीकदलीसिताढ्यं श्रीशाल्मलीबकुलकेतकिसच्छिरीषम् ॥ ११॥
सन्मोदिनीजलजवृन्दमनोहराभं वृन्दारकं वरवनं तुलसीलताढ्यम् । श्रीमल्लिकामृतलतामधुमाधवीभिः संराजितं स्मर नृपेन्द्र व्रजस्य मध्ये ॥ १२॥
वंशीवटं च कलकण्ठविहंङ्गमैश्च कृष्णातटे च पुलिनं किल बालुकाढ्यम् । श्रीपाटलैर्मधुककिंशुकसत्प्रियालै- रौदुम्बरैः क्रमुकद्राक्षकपित्थयुक्तम् ॥ १३॥
श्रीकोविदारपिचुमन्दलतार्जुनैश्च प्लक्षैरशोकसरलैः सुरदारुभिश्च । जम्बूसुवेत्रनलकुब्जकस्वर्णयूथी- पुन्नागनागकुटजैः कुरबैर्वृतं च ॥ १४॥
चक्राह्वसारसशुकैः सितराजहंसैः । कारण्डवैश्च जलकुक्कुटकूजितं च ॥ १५॥
दात्यूहकोकिलकपोतकनीलकण्ठै- । र्नृत्यन्मयूरकलराववृतं स्मर त्वम् ॥ १६॥
श्यामाचकोरकलखञ्जनसारिकाभिः पारावतैर्भ्रमरतित्तिरतित्तिरीभिः । श्रीकाञ्चनीमधुलतामधुयूथिकाभिः संवेष्टितं हरिणमर्कटमर्कटीभिः ॥ १७॥
श्रीपद्मरागशिखरं च निकुञ्जगेहं श्रीकौस्तुभेन्द्रमणिराजिविराजमानम् । कोटीन्दुमण्डलवितानगणैश्च हैमैः श्रीपट्टसूत्ररचितैर्मणितोरणाढ्यम् ॥ १८॥
मुक्तावृतैः कनकपीतपतत्पताकैः पारावतैः सितपतत्रिभिरावृतञ्च । मन्दारकुन्दकरवीरकयूथिकानां मालाविचित्ररचितं नवचम्पकानाम् ॥ १९॥
नागेशपद्महरिचन्दनपल्लवानां श्रीमालतीकुरबकाञ्चनयूथिकानाम् । मालाभिरावृतमनङ्गहरं गृहं त- त्सद्रत्नदर्पणवृतं सितचामरैश्च ॥ २०॥
सिंहासनैश्च नवपल्लवपुष्पयुक्तैः शय्यासनैः कनकविद्रुमपादवृन्दैः । श्रीचन्दनागुरुजलैर्मकरन्दसङ्घैः कस्तूरिकामुदितकुङ्कुमचर्चितं तत् ॥ २१॥
एजद्वसन्ततरुपल्लवमेव वातैः शीतैर्गजेन्द्रगमनैः सुरभीकृताङ्गम् । एतादृशं हरिनिकुञ्जगृहं स्मर त्वं सन्नम्रशाखतरुयुक्तमतीव पुष्पैः ॥ २२॥
श्रीवेणुगीतं बहुकामवर्द्धनं निशम्य सर्वा व्रजयोषितो नृप । श्रीकृष्णकान्तेन गृहीतमानसा विसृज्य कर्माणि समाययुर्वने ॥ २३॥
रुद्धा याः पतिभी राजन्कृष्णेन हृतमानसाः । स्थूलं शरीरं तास्त्यक्त्वा त्वरं कृष्णान्तिकं ययुः ॥ २४॥
सिंहासने हेमदुकूलसंयुते मध्ये स्थितं सुन्दरनन्दनन्दनम् । श्रीसुन्दरी राधिकया समं परं गले दधानं मधुमालतीस्रजम् ॥ २५॥
श्यामं प्रभातार्ककिरीटिनं हरिं स्फुरत्प्रभं श्रीमुरलीमनोहरम् । पीताम्बरं मन्मथराशिमोहनं व्रजस्त्रियस्तं ददृशुः समागताः ॥ २६॥
दृष्ट्वा प्रियाः प्रियतमं मत्स्यकुण्डलिनं हरिम् । गोप्यो मूर्च्छां गताः सद्यो भूप चालक्षितोद्यमाः ॥ २७॥
सान्त्वयामास ताः कृष्णो मिष्टवाक्यैः सुधासमैः । तदा गोप्यो वनोद्देशे सर्वाश्चैतन्यतां गताः ॥ २८॥
कृष्णं गद्गदया वाचा स्तुत्वा भीताः स्त्रियो वराः । त्यक्त्वा विरहजं दुःखं गोविन्दं ददृशुः प्रियम् ॥ २९॥
वृन्दावने भ्राजमाने मालतीवनसङ्कुले । दिव्यद्रुमलताजाले मधुपध्वनिनादिते ॥ ३०॥
विचचार हरिः साक्षाद्देवो मदनमोहनः । पद्माभं पद्महस्तेन गृहीत्वा राधिकाकरम् ॥ ३१॥
प्रहसन्भगवान्साक्षादाययौ यमुनातटम् । कृष्णातीरे निकुञ्जे वै श्रीकृष्णो निषसाद ह ॥ ३२॥
तस्मिन्गृहे मधुपतेः शृणु गोपिकानां श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् । झङ्कारनूपुरझणत्करकङ्कणानां मञ्जीररत्नविचलत्कटिकिङ्किणीनाम् ॥ ३३॥
स्मेरद्युतिस्फुटचमत्कृतगण्डदेशैः श्रीदन्तपङ्क्तिविलसत्तडितालिलेशैः । कोटीरहारहरिताङ्गदभूषितानां बालार्कमण्डलविकुण्डलमण्डितानाम् ॥ ३४॥
तासां तु कापि युवती कथिता च मुग्धा मध्यापि कापि तरुणी रुचिरा प्रगल्भा । काचित्तरुं विनयती मधुरं हसन्ती काचित्सखी मदयुता सुवने व्रजन्ती ॥ ३५॥
सन्ताड्य तामपि करेण तु काप्यधाव- त्सङ्गृह्य कापि भुवने कमलैर्जघान । काचिच्छ्लथत्कनकहारमुपाजहार काचित्प्रमुक्तकबरी तु विहारमत्ता ॥ ३६॥
श्रीजाह्नवी च यमुना मधु माधवी च शीला रमा शशिमुखी विरजा सुशीला । चन्द्रानना च ललिता त्वचला विशाखा मायाल्प एव कथिता भवने त्वसङ्ख्याः ॥ ३७॥
लीलातपत्रमतिमौक्तिकदामजालं नीत्वा चलन्ति मणिभूमिषु तत्र काश्चित् । श्रीचामरव्यजनदण्डधरा वयस्याः काश्चिद्व्रजन्ति धृतपीतपतत्पताकाः ॥ ३८॥
नृत्यन्ति तत्र हरिवेषधरास्तु काश्चि- द्वीणाकरा मधुरतालमृदङ्गहस्ताः । वंशीधराश्च वृषभानुसुताः सुवेषाः केयुरकुण्डलयुता मणिवेत्रहस्ताः ॥ ३९॥
सद्धावभावरसतालयुतस्मिताक्तै- र्झङ्कारनूपुरयुतैर्विशदैः कटाक्षैः । सङ्गीतनृत्यविदितैर्भ्रुकुटीविभङ्गै राधां हरिं च सततं परितोषयन्त्यः ॥ ४०॥
तस्मिन्निकुञ्जभवने यमुनातटेऽपि वंशीवटे वनधरानिकटे हरिं तम् । श्रीराधया च गिरिराजतटं व्रजन्तं नन्दात्मजं च नटवेषधरं स्मर त्वम् ॥ ४१॥
श्रीपद्मरागनखदीप्तिपदारविन्दं झङ्कारनूपुरधरं स्फुरदङ्गदेशम् । कुर्वन्तमेव तु पदारुणभूमिदेशं श्रीमत्परागसुरुचालमितस्ततस्तु ॥ ४२॥
लक्ष्मीकराब्जपरिलालितजानुदेशं रम्भोरु पीतवसनं तु कृशोदराभम् । रोमावलिभ्रमरनाभिसरस्त्रिरेखं काञ्चीधरं भृगुपदं मणीकौस्तुभाढ्यम् ॥ ४३॥
श्रीवत्सहाररुचिरं नवमेघनीलं पीताम्बरं करिकरस्फुटबाहुदण्डम् । रत्नाङ्गदं च मणिकङ्कणपद्महस्तं श्रीराजहंसवरकन्धरशोभमानम् ॥ ४४॥
श्रीकम्बुकण्ठललितं विलसत्कपोलं मध्यं तु निम्नचिबुकं किल कुन्ददन्तम् । बिम्बाधरं स्मितलसच्छुकचञ्चुनासं पीयूषकल्पवचनं प्रचलत्कटाक्षम् ॥ ४५॥
श्रीपुण्डरीकदलनेत्रमनङ्गलीलं भ्रूमण्डलस्मितगुणावृतकामचापम् । विद्युच्छटोच्छलितरत्नकिरीटकोटिं मार्तण्डमण्डलविकुण्डलमण्डिताभम् ॥ ४६॥
वंशीधरं त्वहिविलोलगुडालकाढ्यं राधापतिं सजलपद्ममुखं चलन्तम् । कन्दर्पकोटिघनमानहरं कृशाङ्गं वंशीवटे नटवरं भज सर्वथा त्वम् ॥ ४७॥
आरक्तरक्तनखचन्द्रपदाब्जशोभां मञ्जीरनूपुररणत्कटिकिङ्किणीकाम् । श्रीघण्टिकाकनककङ्कणशब्दमुक्तां राधां दधामि तरुपुञ्जनिकुञ्जमध्ये ॥ ४८॥
नीलाम्बरैः कनकरश्मितटस्फुरद्भिः श्रीभानुजातटमरुद्गतिचञ्चलाङ्गैः । सूक्ष्मस्वरूपललितैरतिगौरवर्णां रासेश्वरीं भज मनोहरमन्दहासाम् ॥ ४९॥
बालार्कमण्डलमहाङ्गदरत्नहारां ताटङ्कतोरणमणीन्द्रमनोहराभाम् । श्रीकण्ठभालसुमनोनवपञ्चदाम्नीं रत्नाङ्गुलीयललितां व्रजराजपत्नीम् ॥ ५०॥
चूडामणिद्युतिलसत्स्फुरदर्द्धचन्द्रां ग्रैवेयकालपनपत्रविचित्ररूपाम् । श्रीपट्टसूत्रमणीपट्टचलद्विदाम्नीं स्फूर्ज्जत्सहस्रदलपद्मधरां भजस्व ॥ ५१॥
श्रीबाहुकङ्कणलसत्कुचरत्नदीप्तिं श्रीनासिकाभरणभूषितगण्डदेशाम् । सद्यौवनालसगतिं कलसर्पवेणीं मध्येन्दुकोटिवदनां स्फुटचम्पकाभाम् ॥ ५२॥
सद्धावभावसहितां नवपद्मनेत्रां स्फूर्ज्जत्स्मितद्युतिकलां प्रचलत्कटाक्षाम् । कृष्णप्रियां ललितकुन्तलपुञ्जलाभां मन्दारहारमधुरभ्रमरीरवाढ्याम् ॥ ५३॥
श्रीखण्डकुङ्कुममृदागुरुवारिसिक्तां श्रीबिन्दुकीरुचिरपत्रविचित्रचित्राम् । सन्तानपत्ररुचिरामलमञ्जनाभां रासेश्वरीं गजगतिं भज पद्मिनीं ताम् ॥ ५४॥
एतादृशीं रतिवरां तु समेत्य कृष्णो गच्छन्निकुञ्जवनजालविलोकानाय । धावन्ति तत्र मणिछत्रधराश्च गोप्यो नीत्वा तथा चमरचारुपतत्पताकाः ॥ ५५॥
षड्रागमेव वरधैवतमध्यमाद्यै- र्गायन्तमादिपुरुषं भज नन्दपुत्रम् । षट्त्रिंशतस्तदनुवर्त्तितरागिणीनां वंशीवरेण ललितेन वरं व्रजन्तम् ॥ ५६॥
शृङ्गारवीरकरुणाद्भुतहास्यरौद्र- बीभत्सशान्तकभयानकनित्ययुक्तम् । भक्तप्रियं व्रजवधूमुखपद्मभृङ्गं योगीन्द्रहृत्कमलविस्फुरदङ्घ्रियुग्मम् ॥ ५७॥
क्षेत्रज्ञमादिपुरुषं स्वधियज्ञरूपं सर्वेश्वरं सकलकारणकारणेशम् । कृष्णं हरिं प्रकृतिपूरषयोः पुमांसं सर्वं निरस्तकपटं निजतेजसेह ॥ ५८॥
यं वै स्तुवन्ति शिवधर्मसुरेशशेष- लोकेशसिद्धिदगणेशसुरादयोऽपि । राधारमाप्रकृतिभूविरजास्वराद्या वेदा भजन्ति सततं तमहं भजामि ॥ ५९॥
इति गर्गसंहितायां अश्वमेधखण्डे द्विचत्वारिशोऽध्यायः रासक्रीडा समाप्ता ।
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।
Office number (1)
*📜ग्रहराज ज्योतिष कार्यालय📜*
छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
Office number (2)
हरसिद्धि नगर , सलाया रोड जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५
tps://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*