श्रीराम उवाच
नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि ।
प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥
सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि ।
दुष्टजृम्भिणि सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ २॥
त्वमेका परमाशक्तिः सर्वभूतेष्ववस्थिता ।
दुष्टान्संहर सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ ३॥
रणप्रिये रक्तभक्षे मांसभक्षणकारिणि ।
प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४॥
खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे ।
ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५॥
त्वत्पादपङ्कजाद्दैन्यं नमस्ते शरणप्रिये ।
विनाशाय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६॥
अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि ।
अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७॥
ये त्वां स्मरन्ति दुर्गेषु देवीं दुर्गविनाशिनीम् ।
नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८॥
महिषासृक्प्रिये सङ्ख्ये महिषासुरमर्दिनि ।
शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९॥
प्रसन्नवदने चण्डि चण्डासुरविमर्दिनि ।
सङ्ग्रामे विजयं देहि शत्रून् जहि नमोऽस्तु ते ॥ १०॥
रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके ।
रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११॥
निशुम्भशुम्भसंहन्त्रि विश्वकर्त्रि सुरेश्वरि ।
जहि शत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२॥
भवान्येतत्सर्वमेव त्वं पालयसि सर्वदा ।
रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३॥
त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि ।
प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४॥
दुर्वृत्तवृन्ददमिनि सद्वृत्तपरिपालिनि ।
निपातय रणे शत्रूञ्जयं देहि नमोऽस्तु ते ॥ १५॥
कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे ।
सङ्ग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६॥
इति श्रीमहाभागवतेमहापुराणे श्रीरामकृता कात्यायनीस्तुतिःसमाप्ता ॥
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।
Office number (1)
*📜ग्रहराज ज्योतिष कार्यालय📜*
छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
Office number (2)
हरसिद्धि नगर , सलाया रोड जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५
tps://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
No comments:
Post a Comment