Saturday, 25 January 2025

।।भारतभूमातृस्तोत्रम्।।


।।वंन्दे मातरम्।।

भारतभूमातृस्तोत्रम्


वन्दे मातरमव्यक्तां व्यक्तां च जननीं पराम् ।
दीनोऽहं बालकः कांक्षे सेवां जन्मनि जन्मनि ॥ १॥

सागरालिङ्गितां लक्ष्मीं जगज्जनककन्यकाम् ।
स्थितां हिमनगस्यांके पार्वतीमपरां भजे ॥ २॥

शुभ्रं धर्मध्वजं मातुः किं वा राशीकृतं यशः ।
रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ॥ ३॥

जाह्नवीयमुनासिंधुब्रह्मपुत्रशतद्रुभिः ।
भूदेवीं पञ्चधाराभिः सततं साऽभिषिञ्चति ॥ ४॥

नगाधिपं धारयंतीं मस्तके रत्नमद्वयम् ।
काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ॥ ५॥

नर्मदातापतीविंध्यसप्तपीठकमेखलाम् ।
पूर्वापराचलोरूं च मलयं पादपीठके ।
मध्यदेशोदरे गुप्तानक्षयान् धनसञ्चयान् ॥ ६॥

असुराणां पुरी लंका दासी यच्चरणयोः कृता ।
तां देवीं भारतीं वन्दे मातरंविश्वपूजिताम् ॥ ७॥

द्रुष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तकः ।
षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनिः ॥ ८॥

वाल्मीकिश्च तथा व्यासः कालिदासो महाकविः ।
आर्यभट्टश्च भरतः शंकरोऽद्वैतकेसरी ॥ ९॥

भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ ।
सावित्री द्रौपदी सीता दमयंती च तारका ॥ १०॥

महाधान्यद्वितीयानि रत्नान्येतानि भूतले ।
जननी भारती तेषां रत्नगर्भा कथं न सा ॥ ११॥

वसुन्धरा रत्नगर्भा रसा विश्वंभरा क्षमा ।
सर्वंसहा स्थिरा चैव भारती भूसुकन्यका ॥ १२॥

रत्नाकरः स्वयं भक्त्या मुक्तोपायनपूर्वकम् ।
चरणान्क्षालयत्यस्या अतंद्रश्च दिवानिशम् ॥ १३॥

कैलासद्वारकाधीशौ रामेश्वरपुरीश्वरौ ।
द्वारपाला बभूवुश्च सौभाग्यं मातुरद्भुतम् ॥ १४॥

पोष्यन्ति सदा मातुः पर्वतस्तनमंडलात् ।
निःसृताश्च पयोधाराः संततीनां परंपराः ॥ १५॥

पुत्रवत्सलता मातुरगाधा हरिणा स्वयम् ।
अवतीर्योदरे सोढं गर्भदुःखं पुनः पुनः ॥ १६॥

मरणे जन्मकाले च मुमूर्षुर्नवबालकः ।
त्वदंके चैव संशेते अहो वत्सलता तव ॥ १७॥

पद्मालया त्वमेवासि त्वमेव च सरस्वती ।
अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ॥ १८॥

त्वदृक्षाः कल्पवृक्षाश्च चिन्तामणिशिलाः शिलाः ।
त्वद्वनं नंदनं साक्षात्साक्षात्त्वं स्वर्गदेवता ॥ १९॥

प्रतिजन्मनि मे चित्तं वित्तं देहश्च संततिः ।
त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ॥ २०॥

न मे वांछाऽस्ति यशसि विद्वत्त्वे न च वा सुखे ।
प्रभुत्वं नैव वा स्वर्गे मोक्षेऽत्यानंददायके ॥ २१॥

परं च भारते जन्म मान्वस्य च वा पशोः ।
विहंगस्य च वा जन्तोर्वृक्षपाषाणयोरपि ॥ २२॥

निरन्तरं भवतु मे मातृसेवांशभाग्यभाक् ।
एषैव वाञ्छा हृदये साक्षी सर्वात्मकः प्रभुः ॥ २३॥

इति श्रीभारतभूमातृस्तोत्रं सम्पूर्णं


सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।

⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️


वन्दे मातरम्
सुजलां सुफलाम्
मलयजशीतलाम्
शस्यश्यामलाम्
मातरम्।

शुभ्रज्योत्स्नापुलकितयामिनीम्
फुल्लकुसुमितद्रुमदलशोभिनीम्
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम्॥ १॥ 

कोटि कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर्धृत-खरकरवाले,
अबला केन मा एत बले।
बहुबलधारिणीं 
नमामि तारिणीं
रिपुदलवारिणीं 
मातरम्॥ २॥

तुमि विद्या, तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वम् हि प्राणा: शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडी मन्दिरे-मन्दिरे॥ ३॥

त्वम् हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी,
नमामि त्वाम्
नमामि कमलाम्
अमलां अतुलाम्
सुजलां सुफलाम् 
मातरम्॥४॥

वन्दे मातरम्
श्यामलाम् सरलाम्
सुस्मिताम् भूषिताम्
धरणीं भरणीं 
मातरम्॥ ५॥


जन-गण-मन अधिनायक जय हे
भारत भाग्‍य विधाता ।
पंजाब-सिंधु-गुजरात-मराठा
द्राविड़-उत्‍कल-बंग
विंध्य हिमाचल यमुना गंगा
उच्‍छल जलधि तरंग
तव शुभ नामे जागे, तव शुभ आशिष मांगे
गाहे तव जय-गाथा ।
जन-गण-मंगलदायक जय हे भारत भाग्‍य विधाता ।
जय हे, जय हे, जय हे, जय जय जय जय हे ।


               Office number (1)


       *📜ग्रहराज ज्योतिष कार्यालय📜*

     छाया रोड बालाजी कोम्प्लेक्स -3 माला

भारतीय विद्यालय के सामने पोरबंदर-गुजरात


                 रविवार एवं सोमवार

                   9727972119

              शास्त्री  एच एच राजगुरू

          *ज्योतिष-वास्तु-धार्मिकपुजा*

♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️

               Office number (2)


हरसिद्धि नगर , सलाया रोड  जाम खम्भालिआ -

देव भूमि द्वारका-३६१३०५


tps://www.facebook.com/grahraj.astrology/


https://grahraj.blogspot.in/


https://www.youtube.com/results?search_query=grahraj+jyotish


https://twitter.com/grah_raj


hitu9grahgochar@gmail.com


मुलाकात के लिए पहले फोन पर Rg.  करवा ना जरुरि है।

       *🙏🏻 हरि: ॐ तत्सत् 🙏🏻*

♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️




1 comment: