Thursday, 22 August 2024

।।नागशान्तिस्तोत्रम्।।

नागशान्तिस्तोत्रम्

नाग पंचमी

नागशान्तिस्तोत्रं
श्रीगणेशाय नमः ।
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥

एतानि नवनामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥

तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥

॥ इति श्रीनवनागनामस्तोत्रम् सम्पूर्णम् ॥

श्री गणेशाय नमः ।
श्री हाटकेश्वराय नमः ।
आरक्तेन शरीरेण रक्तान्तायतलोचनः ।
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ १॥

अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ।
महापापविषं हत्वा शान्तिमाशु करोतु मे ॥ २॥

सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ।
चारुभोगकृताटोपो हारचारुविभूषणः ॥ ३॥

वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ।
महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे ॥ ४॥

अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ।
तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः ॥ ५॥

नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ।
करोतु मे महाशान्तिं सर्वदोषविषावहः ॥ ६॥

अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ।
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ॥ ७॥

कर्कोटको महानागो विषदर्पबलाऽन्वितः ।
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ॥ ८॥

पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ।
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ॥ ९॥

ख्यातः पद्मो महानागो हरपादार्चने रतः ।
करोतु मे महाशान्तिं महापापं विषक्षयम् ॥ १०॥

पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ।
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ॥ ११॥

महापद्मो महानागो नित्यं पशुपतौ रतः ।
विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ॥ १२॥

श्यामेन देहभारेण श्रीमत्कमललोचनः ।
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ॥ १३॥

शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ।
महाविषं महापापं हत्वा शान्तिं करोतु मे ॥ १४॥

अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ।
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ॥ १५॥

कुलिको नागराजेशो नित्यं हरपरायणः ।
अपहृत्य विषं घोरं करोतु मम शान्तिकम् ॥ १६॥

अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ॥ १७॥

पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ।
रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ॥ १८॥

नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ।
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ॥ १९॥

यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ।
न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ॥ २०॥

चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ।
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ॥ २१॥

इति नागशान्तिस्तोत्रं सम्पूर्णम् ।

सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर
आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण
होने का आश्वासन नहीं दिया जा सकता। विस्तार में
आप कार्यालय पर संपर्क करें।
⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️
               Office number (1)

       *📜ग्रहराज ज्योतिष कार्यालय📜*
     छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात

                 रविवार एवं सोमवार
                   9727972119
              शास्त्री  एच एच राजगुरू
          *ज्योतिष-वास्तु-धार्मिकपुजा*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
               Office number (2)

हरसिद्धि नगर , सलाया रोड  जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५

tps://www.facebook.com/grahraj.astrology/

https://grahraj.blogspot.in/

https://www.youtube.com/results?search_query=grahraj+jyotish

https://twitter.com/grah_raj

hitu9grahgochar@gmail.com

मुलाकात के लिए पहले फोन पर Rg.  करवा ना जरुरि है।
       *🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️





No comments:

Post a Comment