Sunday, 9 January 2022

।। श्रीशाकम्भर्यष्टकम् ।।



श्रीशाकम्भर्यष्टकम्

शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि- र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः । वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा ॥ १॥ देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता । वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २॥ ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा । भेरीशङ्खक्ष् मृदङ्गक्ष् घोषमुदिता शूलिप्रिया चेश्वरी माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा ॥ ३॥ वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी । यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा ॥ ४॥ श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी । त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ५॥ श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम् । नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ६॥ नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम् । गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ७॥ द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी । मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ८॥ शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान् । स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९॥ इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम् ॥

Office number (1)

       *📜ग्रहराज ज्योतिष कार्यालय📜*
     छाया रोड बालाजी कोम्प्लेक्स -3 माला
 भारतीय विद्यालय के सामने पोरबंदर-गुजरात

                 रविवार एवं सोमवार
                   9727972119
              शास्त्री  एच एच राजगुरू
          *ज्योतिष-वास्तु-धार्मिकपुजा*

               Office number (2)

 हरसिद्धि नगर , सलाया रोड  जाम खम्भालिआ -
 देव भूमि द्वारका-३६१३०५

 tps://www.facebook.com/grahraj.astrology/

https://grahraj.blogspot.in/

https://www.youtube.com/results?search_query=grahraj+jyotish

https://twitter.com/grah_raj

hitu9grahgochar@gmail.com

मुलाकात के लिए पहले फोन पर Rg.  करवा ना जरुरि है।


       *🙏🏻 हरि: ॐ तत्सत् 🙏🏻*

No comments:

Post a Comment