सूर्याष्टकम्
॥ श्री गणेशाय नमः ॥
साम्ब उवाच ॥
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ १॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २॥
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३॥
त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ४॥
बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ६॥
तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९॥
आमिशं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥ १०॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥ ११॥
इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है
अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का
आश्वासन नहीं दिया जा सकता। विस्तार में
आप कार्यालय पर संपर्क करें*
📜ग्रहराज ज्योतिष कार्यालय📜*
छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
https://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
No comments:
Post a Comment