Sunday, 15 August 2021

महामृत्युञ्जयकवचम्

श्री गणेशाय नमः । भैरव उवाच । श‍ृणुष्व परमेशानि कवचं मन्मुखोदितम् । महामृत्युञ्जयस्यास्य न देयं परमाद्भुतम् ॥ १॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ २॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥ विनियोगः अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरव ऋषिः, गायत्रीछन्दः, श्रीमहामृत्युञ्जयो महारुद्रो देवता, ॐ बीजं, जूं शक्तिः, सः कीलकं, हौमिति तत्वं, चतुर्वर्गसाधने मृत्युञ्जयकवचपाठे विनियोगः ॥ ॐ चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम् । तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ १॥ ॐ जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम । ॐ श्रीं शिवो ललाटं मे ॐ हौं भ्रुवौ सदाशिवः ॥ २॥ नीलकण्ठोऽवतान्नेत्रे कपर्दी मेऽवताच्छ्रुती । त्रिलोचनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥ मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥ कन्धरां कालमथनो गलं गणप्रियोऽवतु । स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ ५॥ नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् । स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥ कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥ शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः । कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ ८॥ जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः । गुल्फो पायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु ॥ ९॥ पादादिमूर्धपर्यन्तमघोरः पातु मे सदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥ रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः । पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥ पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥ नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः । उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥ दशदिक्षु सदा पातु महामृत्युञ्जयश्च माम् । रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥ पायाद् ओं जूं महारुद्रो देवदेवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु ॥ १५॥ सायं सर्वेश्वरः पातु निशायां नित्यचेतनः । अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥ सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ १७॥ फलश्रुति सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् । पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् ॥ १८॥ य इदं च पठेन्मन्त्री कवचं वार्चयेत् ततः । तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥ रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्जयं लभेत् । जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥ महाभये महारोगे महामारीभये तथा । दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ॥ २१॥ सर्व तत् प्रशमं याति मृत्युञ्जयप्रसादतः । धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥ प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ्जयस्य तु । गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत् ॥ २३॥ । इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयकवचं सम्पूर्णम् ।


No comments:

Post a Comment