Saturday, 21 August 2021

।।श्रीहयग्रीवपूजाविधि स्तोत्रम्।।

श्रीहयग्रीवपूजाविधि स्तोत्रम् च

रुद्र उवाच । पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर । श‍ृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥ १॥ हरिरुवाच । हयग्रीवस्य देवस्य पूजनं कथयामि ते । तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥ २॥ मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् । प्रवक्ष्यामि परं पुण्यं तदादौ श‍ृणु शङ्कर ॥ ३॥ ॐ हौं क्ष्रौं शिरसे नमः इति प्रणवसंयुतः । अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥ ४॥ अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज । ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहायुक्तं शिरः प्रोक्तं क्ष्रूं वषट् तथा ॥ ५॥ ॐकारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज । ॐ क्ष्रैं कवचाय हुं वै कवचं परिकीर्तितम् ॥ ६॥ ॐ क्षौं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् । ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्तितम् ॥ ७॥ पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः श‍ृणु । आदौ स्नात्वा तथाऽऽचम्य ततो यागगृहं व्रजेत् ॥ ८॥ ततः प्रविश्य विधिवत्कुर्याद्वै शोषणादिकम् । यं क्षौं रमिति बीजैश्च कठिनीकृत्य लमिति ॥ ९॥ अण्डमुत्पाद्य च ततः ॐ कारेणैव भेदयेत् । अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥ १०॥ शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् । गोक्षीरसदृशं तद्वत्सूर्यकोटिसमप्रभम् । शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥ ११॥ किरीटिनं कुण्डलिनं वनमालासमन्वितम् । सुरक्तं सुकपोलं च षीताम्बरधरं विभुम् ॥ १२॥ भावयित्वा महात्मानं सर्वदेवैः समन्वितम् । अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥ १३॥ ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् । ध्यायेद्‍ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥ १४॥ ततश्चावाहयेद्रुद्र देवता आसनस्य याः । ॐ हयग्रीवासनस्य आगच्छत च देवताः ॥ १५॥ आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके । द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज ॥ १६॥ समस्तपरिवाराय अच्युताय नम इति । अस्य मध्येऽर्चनं कार्यं द्वारे गङ्गाञ्च पूजयेत् ॥ १७॥ यमुनां च महादेवीं शङ्खपद्मनिधी तथा । गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥ १८॥ आधाराख्यां महादेव ततः कूर्मं समर्चयेत् । अनन्तं पृथिवीं पश्चाद्धर्मज्ञानौ ततोऽचयेत् । वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत् ॥ १९॥ अधर्माज्ञानावैराग्यानैश्वर्यादींस्तु पूर्वतः । सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् ॥ २०॥ कन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् । अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् । मध्यदेशे प्रकर्तव्यमिति रुद्र प्रकीर्तितम् ॥ २१॥ विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज । प्रह्वी सत्या तथेशानानुग्रहाः शक्तयो ह्यमूः ॥ २२॥ पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः । अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥ २३॥ प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः । मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥ २४॥ स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः । दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥ २५॥ कर्तव्यं विधिनानेन इति ते हर कीर्तितम् । ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥ २६॥ वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् । आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥ २७॥ आवाहनं प्रकर्तव्यं देवदेवस्य शङ्खिनः । आवाह्य मण्डले तस्य न्यासं कुर्यादतन्द्रितः ॥ २८॥ न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् । हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥ २९॥ इन्द्रादिलोकपालैश्च संयुतं विष्णुमव्ययम् । ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥ ३०॥ पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे । स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥ ३१॥ देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज । ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥ ३२॥ ततश्च मण्डले रुद्रं ध्यायेद्देवं परेश्वरम् । ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥ ३३॥ दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर । ॐ क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥ ३४॥ ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् । ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥ ३५॥ ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् । ॐ क्षौं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥ ३६॥ ॐ क्षः अस्त्राय नम इत्यस्त्रं चानेन पूजयेत् । हृदयं च शिरश्चैव शिखां च कवचं तथा ॥ ३७॥ पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् । कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्ये प्रपूजयेत् ॥ ३८॥ पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् । शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोऽर्चयेत् ॥ ३९॥ खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः । पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥ ४०॥ श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् । पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम् ॥ ४१॥ ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा । गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥ ४२॥ इन्द्रं सवाहनं चाथ परिवारयुतं तथा । अग्निं यमं निरृतिं च वरुणं वायुमेव च ॥ ४३॥ सोममीशाननागांश्च ब्रह्माणं परिपूजयेत् । पूर्वादि चोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज ॥ ४४॥ वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदाम् । त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥ ४५॥ विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् । एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥ ४६॥ पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज । देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज ॥ गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥ ४७॥ प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् । स्तुवीत चानया स्तुत्या प्रणवाद्यैर्वृषध्वज ॥ ४८॥ अथ स्तोत्रं ॐ नमो हयशिरसे विद्याध्यक्षाय वै नमः । नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः ॥ ४९॥ नमः शान्ताय देवाय त्रिगुणायात्मने नमः । सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने ॥ ५०॥ सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः । नमश्चेश्वरवन्द्याय शङ्खचक्रधारय च ॥ ५१॥ नम आद्याय दान्ताय सर्वसत्त्वहिताय च । त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे ॥ कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमोनमः ॥ ५२॥ इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् । हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥ ५३॥ सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् । हयग्रीवं महेशेशं परमात्मानमव्ययम् ॥ ५४॥ इति ते कथिता पूजा हयग्रीवस्य शङ्कर । यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥ ५५॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥

सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं
पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक
प्रमाण होने का आश्वासन नहीं दिया जा सकता।
विस्तार में आप कार्यालय पर संपर्क करें।
⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️
               Office number (1)

       *📜ग्रहराज ज्योतिष कार्यालय📜*
     छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात

                 रविवार एवं सोमवार
                   9727972119
              शास्त्री  एच एच राजगुरू
          *ज्योतिष-वास्तु-धार्मिकपुजा*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
               Office number (2)

हरसिद्धि नगर , सलाया रोड  जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५

tps://www.facebook.com/grahraj.astrology/

https://grahraj.blogspot.in/

https://www.youtube.com/results?search_query=grahraj+jyotish

https://twitter.com/grah_raj

hitu9grahgochar@gmail.com

मुलाकात के लिए पहले फोन पर Rg.  करवा ना जरुरि है।
       *🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️

No comments:

Post a Comment