श्रीशिव आरती
सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् ।
श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकंठमीशम् ॥ १॥
भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् ।
जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ २॥
कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् ।
प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ३॥
मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसंभरितं कैवल्यपुरुषम् ।
भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ४॥
सुरगंगासम्प्लावितपावननिजशिखरं समभूषितशशिबिम्बं जटाधरं देवम् ।
निरतोज्ज्वलदावानलनयनफालभागं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ५॥
शशिसूर्यनेत्रद्वयमाराध्यपुरुषं सुरकिन्नरपन्नगमयमीशं संकाशम् ।
शरवणभवसम्पूजितनिजपादपद्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ६॥
श्रीशैलपुरवासं ईशं मल्लीशं श्रीकालहस्तीशं स्वर्णमुखीवासम् ।
काञ्चीपुरमीशं श्रीकामाक्षीतेजं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ७॥
त्रिपुरान्तकमीशं अरुणाचलेशं दक्षिणामूर्तिं गुरुं लोकपूज्यम् ।
चिदम्बरपुरवासं पञ्चलिंगमूर्तिं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ८॥
ज्योतिर्मयशुभलिंगं सङ्ख्यात्रयनाट्यं त्रयीवेद्यमाद्यं पञ्चाननमीशम् ।
वेदाद्भुतगात्रं वेदार्णवजनितं वेदाग्रं विश्वाग्रं श्रीविश्वनाथम् ॥ ९॥
🏵️🌼🏵️🌼🏵️🌼🏵️🌼🏵️🌼🏵️🌼
હરિ ૐ આ લેખ સર્વે ભક્તો નું કલ્યાણ અર્થે તેમજ
શ્રાવણ માસ માં ભગવાન ની અલગ અલગ આરતી
ગાઈ શકે એ હેતુ થી મુકેલ છે.
વિશેષ પ્રસ્તુત સામગ્રી અમારી ખુદ ની નથી.
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर
आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण
होने का आश्वासन नहीं दिया जा सकता। विस्तार में
आप कार्यालय पर संपर्क करें।
⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️
Office number (1)
*📜ग्रहराज ज्योतिष कार्यालय📜*
छाया रोड बालाजी कोम्प्लेक्स -3 माला
भारतीय विद्यालय के सामने पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
Office number (2)
हरसिद्धि नगर , सलाया रोड जाम खम्भालिआ -
देव भूमि द्वारका-३६१३०५
tps://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️⚜️♻️
No comments:
Post a Comment