॥ शुक्रस्तवराजः ॥
अस्य श्रीशुक्रस्तवराजस्य प्रजापतिः ऋषिः अनुष्टुप् छन्दः शुक्रो देवता श्रीशुक्रप्रीत्यर्थे पाठे विनियोगः ॥
नमस्ते भार्गवश्रेष्ठ दैत्यदानवपूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥ १॥
देवयानिपतिस्तुभ्यं वेदवेदाङ्गपारग । परेण तपसा शुद्धः शङ्करो लोकसुन्दरः ॥ २॥
प्राप्तौ विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः । नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥ ३॥
तारामण्डलमध्यस्थ स्वभासाभासिताम्बरः । यस्योदये जगत्सर्वं मङ्गलार्हं भवेदिह ॥ ४॥
अस्तं याते ह्यरिष्टं स्यात्तस्मै मङ्गलरूपिणे । त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥ ५॥
विद्ययाऽजीवयच्छुक्रो नमस्ते भृगुनन्दन । ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥ ६॥
वलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः । भार्गवाय नमस्तुभ्यं पूर्वगीर्वाणवन्दित ॥ ७॥
जीवपुत्राय यो विद्यां प्रादात्तस्मै नमो नमः । नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥ ८॥
नमः कारणरूपाय नमस्ते कारणात्मने । स्तवराजमिमं पुण्यं भार्गवस्य महात्मनः ॥ ९॥
यः पठेच्छृणुयाद्वापि लभते वाञ्छितं फलम् । पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् ॥ १०॥
राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् । भृगुवारे प्रयत्नेन पठितव्यं समाहितेः ॥ ११॥
अन्यवारे तु होरायां पूजयेद्भृगुनन्दनम् । रोगार्तो मुच्यते रोगाद्भयार्तो मुच्यते भयात् ॥ १२॥
यद्यत्प्रार्थयते जन्तुस्तत्तत्प्राप्नोति सर्वदा । प्रातःकाले प्रकर्तव्या भृगुपूजा प्रयत्नतः । सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिम् ॥ १३॥
इति श्रीब्रह्मयामले शुक्रस्तवराजः सम्पूर्णः ॥
सुचना 📵यह लेख पौराणिक ग्रंथों अथवा मान्यताओं पर आधारित है अत: इसमें वर्णित सामग्री के वैज्ञानिक प्रमाण होने का आश्वासन नहीं दिया जा सकता। विस्तार में आप कार्यालय पर संपर्क करें।
*📜ग्रहराज ज्योतिष कार्यालय📜*
छाया चोक्की रोनक कोम्प्लेक्ष
पोरबंदर-गुजरात
रविवार एवं सोमवार
9727972119
शास्त्री एच एच राजगुरू
*ज्योतिष-वास्तु-धार्मिकपुजा*
https://www.facebook.com/grahraj.astrology/
https://grahraj.blogspot.in/
https://www.youtube.com/results?search_query=grahraj+jyotish
https://twitter.com/grah_raj
hitu9grahgochar@gmail.com
मुलाकात के लिए पहले फोन पर Rg. करवा ना जरुरि है।
*🙏🏻 हरि: ॐ तत्सत् 🙏🏻*
No comments:
Post a Comment