॥ श्रीशनिनामस्तुतिः ॥
क्रोडं नीलाञ्जनप्रख्यम् नीलवर्णसमस्रजम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥
नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जनमेचकाय ।
श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ॥
नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः । शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ॥
॥ फल्श्रुतिः ॥
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् । मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ॥
॥ श्रीभविष्यपुराणे श्रीशनिनामस्तुतिः सम्पूर्णा ॥
No comments:
Post a Comment